महाकथिन चीवरदुस्स दान पठन Viewers(1)
महाकथिन चीवरदुस्स दान पठन
(अट्ठकथा-विनयपिकट, महावग्ग 8 चीवरक्खन्धकं अट्ठचीवर मातिकाकथा)
वस्संवुट्ठसङ्घस्स देतीति विहारं पविसित्वा ‘‘इमानि चीवरानि वस्संवुट्ठसङ्घस्स दम्मी’’ति देति। यावतिका भिक्खुनी तस्मिं आवासे वस्संवुट्ठाति यत्तका वस्सच्छेदं अकत्वा पुरिमवस्संवुट्ठा, तेहि भाजेतब्बं, अञ्ञेसं न पापुणाति। दिसापक्कन्तस्सापि सति पटिग्गाहके याव कथिनस्सुब्भारा दातब्बं, अनत्थते पन कथिने अन्तोहेमन्ते एवञ्च वत्वा दिन्नं, पच्छिमवस्संवुट्ठानम्पि पापुणातीति लक्खणञ्ञू वदन्ति। अट्ठकथासु पनेतं न विचारितं।
सचे पन बहिउपचारसीमायं ठितो ‘‘वस्संवुट्ठसङ्घस्स दम्मी’’ति वदति, सम्पत्तानं सब्बेसं पापुणाति। अथ ‘‘असुकविहारे वस्संवुट्ठसङ्घस्सा’’ति वदति, तत्र वस्संवुट्ठानमेव याव कथिनस्सुब्भारा पापुणाति। सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति। कस्मा? पिट्ठिसमये उप्पन्नत्ता। अन्तोवस्सेयेव ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते छिन्नवस्सा न लभन्ति, वस्सं वसन्ताव लभन्ति। चीवरमासे पन ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेव पापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न पापुणाति।
चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव वस्सावासीनं देमाति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा अतीतवस्संवुट्ठानमेव पापुणाति। गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा – ‘‘अतीतवस्सावासस्स पञ्च मासा अतिक्कन्ता, अनागतो चतुमासच्चयेन भविस्सति, कतरवस्सावासस्स देती’’ति? सचे ‘‘अतीतवस्संवुट्ठानं दम्मी’’ति वदति, तंअन्तोवस्संवुट्ठानमेव पापुणाति, दिसापक्कन्तानम्पि सभागा गण्हितुं लभन्ति।
सचे ‘‘अनागते वस्सावासिकं दम्मी’’ति वदति, तं ठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं। अथ ‘‘अगुत्तो विहारो, चोरभयं अत्थि, न सक्का ठपेतुं, गण्हित्वा वा आहिण्डितु’’न्ति वुत्ते ‘‘सम्पत्तानं दम्मी’’ति वदति, भाजेत्वा गहेतब्बं। सचे वदति ‘‘इतो मे अय्ये ततिये वस्से वस्सावासिनं यं न दिन्नं, तं दम्मी’’ति, तस्मिं अन्तोवस्से वुट्ठभिक्खुनीनं पापुणाति। सचे ते दिसा पक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं। अथ एकोयेव अवसिट्ठो, सेसा कालकता, सब्बं एकस्सेव पापुणाति। सचे एकोपि नत्थि, सङ्घिकं होति, तं सम्मुखीभूतेहि भाजेतब्बं।
By Paramattha Dhamma Sikkhaya Foundation
Comments